top of page

इन्द्राक्षीसहस्रनामस्तोत्रम् (रुद्रयामालान्तर्गतम्) | Indrakshi sahasra nama stotram

श्रीइन्द्राक्षीसहस्रनामस्तोत्रम् 
ॐ श्रीगणेशाय नमः ।
ॐ नमोदेव्यै ।
देव्युवाच -
भगवन्सर्वलोकेश भक्तानामुपकारक ।
इन्द्राक्ष्या इष्टदेव्याश्च वद नामसहस्रकम् ॥ १॥

भैरव उवाच  -
या देवी विष्णुमायेति विख्याता सर्वजन्तुषु ।
सैवेन्द्राक्षी परा देवी वज्रहस्ता परात्मिका ॥ २॥

लोकेश्वरी महाविद्या सदा चैतन्यरूपिणी ।
अष्टाविंशाक्षरी विद्या महाश्रीषोडशाक्षरी ॥ ३॥

तस्या नाम्नां सहस्रं च वक्ष्यामि सर्वभूतये ।
अस्य श्री इन्द्राक्षीनामसहस्रस्य भगवान्सदाशिव ऋषिः ।
अनुष्टुप्छन्दः । षोडशाक्षरी देवत…
bottom of page